अतो दीर्घो यञि
७।३।१०१ इत्यनुवर्तते। सुपि च यञादौ परतो ऽकारान्तस्य अङ्गस्य दीर्घो भवति। वृक्षाय। प्लक्षाय। वृक्षाभ्याम्। प्लक्षाभ्याम्। अतः इत्येव, अग्निभ्याम्। यञि इत्येव, वृक्षस्य। प्लक्षस्य।
सुपि च। "अतो दीर्घो यञी"त्यनुवर्तते। "यञी"त्यनुवर्तते। "यञी"त्यनेन सुपीति विशेष्यते। "यस्मिन् विधि"रिति तदादिविधिरित्याह--यञा-दाविति। अतोङ्गस्येति। अदन्तस्याङ्गस्येत्यर्थः। राम-भिस् इति स्थिते, न विभक्ताविति सस्य नेत्त्वम्।